
कृषक विकास योजना

अतीव लघूद्योग रूपेण उर्वरकाणां, उत्तमानां बीजानां, वैज्ञानिक पद्धत्या कृषिकार्यादिनां कृते कृतमेतत् कार्यम् अधुना विशालान्दोलन रूपेण परिवर्तितः जातः। साम्प्रतं स्थापनानन्तरं 2300 अधिकं ग्रामाणां समृद्धेः प्रकाशपुञ्ज रूपेण स्थितोऽस्ति।

मुख्यतया मृत्तिका स्वास्थ्यविकासाय, उन्मूलन सन्तुलनं एवं एकीकृत उर्वरकाणां प्रयोगेण N:P:K प्रयोग स्तरः, कृषकेषु मुख्य एवं गौण पोषकतत्वानां विषये शिक्षा, आधुनिक कृषि तन्त्रं आदिषु प्रचार एवं विस्तरण योजना कृता येन धान्य वृद्धि शक्यते तथा च उर्वरकाणां युक्तं प्रयोगं तथा जलसञ्चयं कृत्वा स्थायीकृषेः विकासः भवितुं शक्यते।

मृत्तिका परिवर्तनं एवं सस्य वृद्धि तथा च स्थिरपर्यावरणं लक्षीकृत्य एतत् मृत्तिका संरक्षण अभियानं आरभ्यते अनया संस्थया। अस्य परिश्रमस्य परिणामः प्राप्तः यत् मृत्तिकायाः उच्चस्वास्थ्य लाभः एवं गतिमान् कृषिक्षेत्रं स्वीकत्य 15% तः 25% उत्पादन वृद्धिः सञ्जाता।

आगामी युवा छात्रेभ्यः ज्ञानम् अनुभवं च दातुं, इफको संस्थया स्व अध्यक्षाः विभिन्नासु प्रतिष्ठितासु कृषि संस्थानेषु एवं सहकारी संस्थानेषु प्रस्थापिताः सन्ति।